Sukta 10.140
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥
pāvakávarcāḥ śukrávarcā́ anū́navarcā́ úd iyarṣi bhānúnā | putró mātárā vicárann úpāvasi pṛṇákṣi ródasī ubhé ||
With purifying splendour, with bright splendour, with unfailing splendour thou risest upward by thy beam. As a son moving between the two Mothers, thou drawest near for our help; thou fillest both the worlds, Heaven and Earth.
पा॒व॒कऽव॑र्चाः । शु॒क्रऽव॑र्चाः । अनू॑नऽवर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना॑ । पु॒त्रः॑ । मा॒तरा॑ । वि॒ऽचर॑न् । उ॒प॑ । अ॒व॒सि॒ । पृ॒णक्षि॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥पावकवर्चाः । शुक्रवर्चाः । अनूनवर्चाः । उत् । इयर्षि । भानुना । पुत्रः । मातरा । विचरन् । उप । अवसि । पृणक्षि । रोदसी इति । उभे इति ॥pāvaka-varcāḥ | śukra-varcāḥ | anūna-varcāḥ | ut | iyarṣi | bhānunā | putraḥ | mātarā | vi-caran | upa | avasi | pṛṇakṣi | rodasī iti | ubhe iti