Sukta 10.140
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥
agné táva śrávo váyo máhi bhrājante arcáyo vibhāvaso | bṛhád-bhāno śávāsā vā́jam ukthyàm dádhāsi dāśúṣe kave ||
Agni, vast are thy glory and thy plenitude; thy flaming rays shine out, O all-illumining. O wide-radiant one, by thy force thou settest in the giver the vāja worthy of the hymn—plenitude of victorious energy, O seer.
अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्यृ॑अ॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभावसो । बृहद्भानो इति बृहत्भानो । शवसा । वाजम् । उक्थ्यृअम् । दधासि । दाशुषे । कवे ॥agne | tava | śravaḥ | vayaḥ | mahi | bhrājante | arcayaḥ | vibhāvaso itivibhāvaso | bṛhadbhāno itibṛhat-bhāno | śavasā | vājam | ukthyṛam | dadhāsi | dāśuṣe | kave