Sukta 10.139
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् । स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥
nṛcákṣā eṣá divó mádhya āsta āpaprivā́n ródasī antárikṣam | sá viśvā́cīr abhí caṣṭe ghṛtā́cīr antárā pū́rvam áparaṁ ca ketúm ||
This seer of men sits in the mid-heaven, filling the two worlds and the mid-region. He looks upon the all-moving, the ghee-bright currents, discerning between the former and the latter sign—between what was and what is to come.
नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टि॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥नृचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिवान् । रोदसी इति । अन्तरिक्षम् । सः । विश्वाचीः । अभि । चष्टि । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥nṛ-cakṣāḥ | eṣaḥ | divaḥ | madhye | āste | āpapri-vān | rodasī iti | antarikṣam | saḥ | viśvācīḥ | abhi | caṣṭi | ghṛtācīḥ | antarā | pūrvam | aparam | ca | ketum