Sukta 10.139
सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
sū́ryaraśmír hárikeśaḥ purástāt savitā́ jyótir úd ayā́ṁ ájasram | tásya pūṣā́ prasavé yāti vidvā́n sámpaśyan víśvā bhúvanāni gopā́ḥ ||
Savitṛ, with sun-rays for his hair, rises in front as a ceaseless light. In his impulsion Pūṣan moves, the knower, beholding all worlds, the guardian who keeps the herds of energies safe.
स॒ूर्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् । तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥सूर्यरश्मिः । हरिकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् । तस्य । पूषा । प्रसवे । याति । विद्वान् । सम्पश्यन् । विश्वा । भुवनानि । गोपाः ॥sūrya-raśmiḥ | hari-keśaḥ | purastāt | savitā | jyotiḥ | ut | ayān | ajasram | tasya | pūṣā | pra-save | yāti | vidvān | sam-paśyan | viśvā | bhuvanāni | gopāḥ