Sukta 10.139
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
rāyó budhnáḥ saṃgámano vásūnāṃ víśvā rūpā́bhí caṣṭe śácībhiḥ | devá iva savitā́ satyádharméndro ná tasthau samaré dhánānām ||
Root of plenitude, meeting-place of treasures, he beholds all forms by his effective powers. Like a god, Savitṛ stands in the true law; like Indra, he takes his stance in the battle for the riches of being.
रा॒यः॑ । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥रायः । बुध्नः । सम्गमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः । देवःइव । सविता । सत्यधर्मा । इन्द्रः । न । तस्थौ । सम्अरे । धनानाम् ॥rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | viśvā | rūpā | abhi | caṣṭe | śacībhiḥ | devaḥ-iva | savitā | satya-dharmā | indraḥ | na | tasthau | sam-are | dhanānām