Sukta 10.138
अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते । इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः ॥
अयु॑द्धसेनो वि॒भ्वा॑ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते । इन्द्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथ॒: प्राक्रा॑मच्छु॒न्ध्यूरज॑हादु॒षा अन॑: ॥
áyuddhaseno vibhvā́ vibhindatā́ dā́śad vṛtrahā́ tujyā́ni tejate | índrasya vájrād abibhed abhiśnáthaḥ prákrāmac chuṇdhyū́r ajahād uṣā́ ánaḥ ||
Though without an army, he became all-pervading in the act of breaking; the slayer of Vṛtra gives and his driving energies blaze. The crusher feared Indra’s thunderbolt; Śuṇdhyū leapt forward, and Dawn abandoned her wagon—darkness’ hold was forced to retreat.
अयु॑द्धऽसेनः । वि॒ऽभ्वा॑ । वि॒ऽभि॒न्द॒ता । दाश॑त् । वृ॒त्र॒ऽहा । तुज्या॑नि । ते॒ज॒ते॒ । इन्द्र॑स्य । वज्रा॑त् । अ॒बि॒भे॒त् । अ॒भि॒ऽश्नथः॑ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज॑हात् । उ॒षाः । अनः॑ ॥अयुद्धसेनः । विभ्वा । विभिन्दता । दाशत् । वृत्रहा । तुज्यानि । तेजते । इन्द्रस्य । वज्रात् । अबिभेत् । अभिश्नथः । प्र । अक्रामत् । शुन्ध्यूः । अजहात् । उषाः । अनः ॥ayuddha-senaḥ | vi-bhvā | vi-bhindatā | dāśat | vṛtra-hā | tujyāni | tejate | indrasya | vajrāt | abibhet | abhi-śnathaḥ | pra | akrāmat | śundhyūḥ | ajahāt | uṣāḥ | anaḥ