Sukta 10.138
एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् । मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥
ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् । मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥
etā́ tyā́ te śrutyā́ni kévalā yád éka ékám ákṛṇor ayajñám | māsā́m vidhā́nam adadhā́ ádhi dyávi tváyā vibhínnaṁ bharati praghím pitā́ ||
These are your sole renowned deeds: that you, the One, made the one who is without sacrifice become fit for the sacrifice. You set in heaven the ordinance of the months; by you the Father bears the extended progression, divided into measures.
ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् । मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽघि॑म् । पि॒ता ॥एता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् । मासाम् । विधानम् । अदधाः । अधि । द्यवि । त्वया । विभिन्नम् । भरति । प्रघिम् । पिता ॥etā | tyā | te | śrutyāni | kevalā | yat | ekaḥ | ekam | akṛṇoḥ | ayajñam | māsām | vi-dhānam | adadhāḥ | adhi | dyavi | tvayā | vi-bhinnam | bharati | pra-ghim | pitā