Sukta 10.138
अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः । मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता ॥
अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्य॑: । मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥
anā́dhṛṣṭāni dhṛṣitó vy àsyan nidhī́m̐r ádevāṁ amṛṇad ayā́syāḥ | māséva sū́ryo vásu púryam ā́ dade gṛṇānó śatrū́m̐r aśṛṇād virúkmatā ||
He cast apart what none could assail; the bold one shattered the godless hoards—Ayāsya. Like the Sun at the month’s turning he set the rich treasure in the city of the being; praising, he broke the enemies by the power of radiant splendour.
अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ । मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒ऽरुक्म॑ता ॥अनाधृष्टानि । धृषितः । वि । आस्यत् । निधीन् । अदेवान् । अमृणत् । अयास्यः । मासाइव । सूर्यः । वसु । पुर्यम् । आ । ददे । गृणानः । शत्रून् । अशृणात् । विरुक्मता ॥anādhṛṣṭāni | dhṛṣitaḥ | vi | āsyat | ni-dhīn | adevān | amṛṇat | ayāsyaḥ | māsāiva | sūryaḥ | vasu | puryam | ā | dade | gṛṇānaḥ | śatrūn | aśṛṇāt | vi-rukmatā