Sukta 10.138
वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः । दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवाँ ऋजिश्वना ॥
वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्य॑: । दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥
ví sū́ryo mádhye amucad ráthaṁ divó vidád dāsā́ya pratímānam ā́ryaḥ | dṛḷhā́ni píproḥ ásurasya māyína índro vy àsyac cakṛvā́ṁ ṛ́jiśvanā ||
The Sun released his chariot in the mid-region; the Aryan found the measure that confronts the Dāsa. Indra, working with straight-going force, cast apart the firm-held structures of the deceptive Asura Pipru.
वि । सूर्यः॑ । मध्ये॑ । अ॒मु॒च॒त् । रथ॑म् । दि॒वः । वि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यः॑ । दृ॒ळ्हानि॑ । पिप्रोः॑ । असु॑रस्य । मा॒यिनः॑ । इन्द्रः॑ । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिश्व॑ना ॥वि । सूर्यः । मध्ये । अमुचत् । रथम् । दिवः । विदत् । दासाय । प्रतिमानम् । आर्यः । दृळ्हानि । पिप्रोः । असुरस्य । मायिनः । इन्द्रः । वि । आस्यत् । चकृवान् । ऋजिश्वना ॥vi | sūryaḥ | madhye | amucat | ratham | divaḥ | vidat | dāsāya | prati-mānam | āyarḥ | dṛḷhāni | piproḥ | asurasya | māyinaḥ | indraḥ | vi | āsyat | cakṛ-vān | ṛjiśvanā