Sukta 10.138
अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम् । अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥
अवा॑सृजः प्र॒स्व॑: श्व॒ञ्चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यम् । अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥
ávāsṛjaḥ prásvaḥ śvañcáyo girī́n udā́j usrā́ ápibo mádhu priyám | ávardhayo vaníno asya daṃsásā śuśóca sū́rya ṛtájātayā girā́ ||
You sent forth the forward surge; you drove up the mountains; you made the shining lights drink the beloved honeyed delight. By the effective power of your works you increased his winning force; the Sun blazed out by the word born of Truth.
अव॑ । अ॒सृ॒जः॒ । प्र॒ऽस्वः॑ । श्व॒ञ्चयः॑ । गि॒रीन् । उत् । आ॒जः॒ । उ॒स्राः । अपि॑बः । मधु॑ । प्रि॒यम् । अव॑र्धयः । व॒निनः॑ । अ॒स्य॒ । दंस॑सा । शु॒शोच॑ । सूर्यः॑ । ऋ॒तऽजा॑तया॑ । गि॒रा ॥अव । असृजः । प्रस्वः । श्वञ्चयः । गिरीन् । उत् । आजः । उस्राः । अपिबः । मधु । प्रियम् । अवर्धयः । वनिनः । अस्य । दंससा । शुशोच । सूर्यः । ऋतजातया । गिरा ॥ava | asṛjaḥ | pra-svaḥ | śvañcayaḥ | girīn | ut | ājaḥ | usrāḥ | apibaḥ | madhu | priyam | avardhayaḥ | vaninaḥ | asya | daṃsasā | śuśoca | sūryaḥ | ṛta-jātayā | girā