Sukta 10.138
तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् । यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥
तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लम् । यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सय॑: ॥
tavá tya índra sakhyéṣu váhnaya ṛtáṁ manvānā́ vy àdardirur válam | yátrā daśasyán uṣáso riṇán ápah kutsā́ya mánman ahyàś ca daṃsáyaḥ ||
In your friendships, O Indra, the impelling powers that seek the Truth broke open the enclosing cavern; there, giving the Dawn her due and setting free the waters, you acted with inspired will for Kutsa, and the constricting serpent-forces were compelled to yield.
तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् । यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् । यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः ॥tava | tye | indra | sakhyeṣu | vahnayaḥ | ṛtam | manvānāḥ | vi | adardiruḥ | valam | yatra | daśasyan | uṣasaḥ | riṇan | āpaḥ | kutsāya | manman | ahyaḥ | ca | daṃsayaḥ