Sukta 10.134
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः । पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
dīrgháṃ hí aṅkuśáṃ yáthā śáktiṃ bíbharṣi mantu-maḥ | pūrvéṇa maghavan padā́jó vayā́ṃ yáthā yamó devī́ janítrī ajī́janad bhadrā́ janítrī ajī́janat ||
As one holds a long goad, so you, O power of luminous plenty, bear the effective might that directs. By the ancient path, O giver of abundance, may we move forward with the unfaltering impulse; as Yama once set the way, so may the divine Mother of becomings bring forth the auspicious birth and again bring it forth.
दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ । पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुमः । पूर्वेण । मघवन् । पदा । अजः । वयाम् । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥dīrgham | hi | aṅkuśam | yathā | śaktim | bibharṣi | mantu-maḥ | pūrveṇa | magha-van | padā | ajaḥ | vayām | yathā | yamaḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat