Sukta 10.134
अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः । दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यव॑: । दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
áva svedā́ ivābhíto víṣvak patantu didyávaḥ | dū́rvāyā iva tántavo ví asmád etu durmatír devī́ janitrī́ ajījanad bhadrā́ janitrī́ ajījanat ||
Let the flashing darts fly away on every side, like sweats flung off; and like threads of spreading grass, let ill-thought depart from us and be dispersed. For the divine, auspicious Mother has brought thee forth.
अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ । दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । स्वेदाःइव । अभितः । विष्वक् । पतन्तु । दिद्यवः । दूर्वायाःइव । तन्तवः । वि । अस्मत् । एतु । दुःमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ava | svedāḥ-iva | abhitaḥ | viṣvak | patantu | didyavaḥ | dūrvāyāḥ-iva | tantavaḥ | vi | asmat | etu | duḥ-matiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat