Sukta 10.134
अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे । रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे । र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
áva yát tvaṃ śatakrato indra víśvāni dhūnúṣe | rayíṃ na sunvaté sácā sahasríṇībhir ūtíbhiḥ devī́ janitrī́ ajījanad bhadrā́ janitrī́ ajījanat ||
When thou, O Indra of a hundred workings, shakest off all that opposes, then come with thy thousandfold helps to the presser, bringing the rayi—fullness of being—as if it were thy natural gift; for the divine, auspicious Mother has brought thee forth.
अव॑ । यत् । त्वम् । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे । र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । यत् । त्वम् । शतक्रतो इति शतक्रतो । इन्द्र । विश्वानि । धूनुषे । रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ava | yat | tvam | śata-krato | itiśata-krato | indra | viśvāni | dhūnuṣe | rayam | ni | sunvate | sacā | sahasriṇībhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat