Sukta 10.134
अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् । शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
áva tyā́ bṛhatī́r íṣo viśváścandrā amitrahan | śácībhiḥ śakra dhūnuhī́ndra víśvābhir ūtíbhiḥ devī́ janitrī́ ajījanad bhadrā́ janitrī́ ajījanat ||
Send down those vast impulsions, all-luminous, O slayer of hostility. With thy powers, O Shakra, shake away the oppositions, O Indra, with all thy helps; for the divine, auspicious Mother has brought thee forth.
अव॑ । त्याः । बृ॒ह॒तीः । इषः॑ । वि॒श्वऽच॑न्द्राः । अ॒मि॒त्र॒ऽह॒न् । शची॑भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । त्याः । बृहतीः । इषः । विश्वचन्द्राः । अमित्रहन् । शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊतिभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ava | tyāḥ | bṛhatīḥ | iṣaḥ | viśva-candrāḥ | amitra-han | śacībhiḥ | śakra | dhūnuhi | indra | viśvābhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat