Sukta 10.133
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः । अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑: । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
yó na indrābhidā́sati sánābhir yáś ca níṣṭyaḥ | áva tásya bálaṃ tira mahī́va dyáur ádha tmánā nábhantām anyakéṣāṃ jyā́kā ádhi dhánvasu ||
Whoever assails us, O Indra—whether near of kin or a stranger—overturn his force; cast it down as the vast heaven presses down by its own mass. Let the bowstrings of others slacken upon their bows.
यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । सऽना॑भिः । यः । च॒ । निष्ट्यः॑ । अव॑ । तस्य॑ । बल॑म् । ति॒र॒ । म॒हीऽइ॑व । द्यौः । अध॑ । त्मना॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥यः । नः । इन्द्र । अभिदासति । सनाभिः । यः । च । निष्ट्यः । अव । तस्य । बलम् । तिर । महीइव । द्यौः । अध । त्मना । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वसु ॥yaḥ | naḥ | indra | abhi-dāsati | sa-nābhiḥ | yaḥ | ca | niṣṭyaḥ | ava | tasya | balam | tira | mahī-iva | dyauḥ | adha | tmanā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su