Sukta 10.133
यो न इन्द्राभितो जनो वृकायुरादिदेशति । अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
yó na indrābhíto jáno vṛkāyúr ādídeśati | adháspadaṃ tám īṃ kṛdhi vibā́dho asi sāsahír nábhantām anyakéṣāṃ jyā́kā ádhi dhánvasu ||
Whoever among men, wolf-desiring, points at us from every side—make him fall to the lower footing. Thou art the strong repeller, the overpowerer; let the bowstrings of others slacken upon their bows.
यः । नः॒ । इ॒न्द्र॒ । अ॒भितः॑ । जनः॑ । वृ॒क॒ऽयुः । आ॒ऽदिदे॑शति । अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒ऽबा॒धः । अ॒सि॒ । स॒स॒हिः । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥यः । नः । इन्द्र । अभितः । जनः । वृकयुः । आदिदेशति । अधःपदम् । तम् । ईम् । कृधि । विबाधः । असि । ससहिः । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वसु ॥yaḥ | naḥ | indra | abhitaḥ | janaḥ | vṛka-yuḥ | ādideśati | adhaḥ-padam | tam | īm | kṛdhi | vi-bādhaḥ | asi | sasahiḥ | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su