Sukta 10.133
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
tváṃ síndhūn ávā asṛjo ’dharā́co áhann áhim | aśatrúr indra jajñiṣe víśvaṃ púṣyasi vā́ryaṃ táṃ tvā pári ṣvajāmahe nábhantām anyakéṣāṃ jyā́kā ádhi dhánvasu ||
You released the rivers downward; you slew the Serpent. Unopposed, O Indra, you are born; you foster all that is choice and desirable. Therefore we embrace you all around—let the others’ bowstrings slacken on their bows.
त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥त्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् । अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वसु ॥tvam | sindhūn | ava | asṛjaḥ | adharācaḥ | ahan | ahim | aśatruḥ | indra | jajñiṣe | viśvam | puṣyasi | vāryam | tam | tvā | pari | svajāmahe | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su