Sukta 10.133
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
pró ṣv asmai puro-rathám índrāya śūṣám arcata | abhī́ke cid u loka-kṛ́t saṃgé samátsu vṛtra-hā́smā́kaṃ bodhi coditā́ nábhantām anyakéṣāṃ jyā́kā ádhi dhánvasu ||
Set forth for him the fore-chariot—sing force for Indra. Even in close quarters, the maker of the worlds, the slayer of obstruction in the clash of battles—wake for us as the inspirer. Let the bowstrings of the others slacken upon their bows.
प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ । अ॒भीके॑ । चि॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥प्रो इति । सु । अस्मै । पुरःरथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । ऊँ इति । लोककृत् । सम्गे । समत्सु । वृत्रहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वसु ॥pro iti | su | asmai | puraḥ-ratham | indrāya | śūṣam | arcata | abhīke | cit | oṃ iti | loka-kṛt | sam-ge | samat-su | vṛtra-hā | asmākam | bodhi | coditā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su