Sukta 10.132
असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा । मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥
अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ । मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥
asā́v anyó asura sū́yata dyáus tváṃ víśveṣāṃ varuṇāsi rā́jā | mūrdhā́ ráthasya cākán ná etā́vatā énāsāntaka-dhrúk ||
That other (heavenly) power gives birth, O Asura; but you, Varuṇa, are the king of all. You are the head of the chariot (of the worlds); by so much you are not a breaker of life by sin—rather, you stand as the one who ends the wrong.
अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥असौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा । मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकध्रुक् ॥asau | anyaḥ | asura | sūyata | dyauḥ | tvam | viśveṣām | varuṇa | asi | rājā | mūrdhā | rathasya | cākan | na | etāvatā | enasā | antaka-dhruk