Sukta 10.132
अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः । दद्वाँ वा यत्पुष्यति रेक्णः सम्वारन्नकिरस्य मघानि ॥
अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्ण॒: पत्य॑मानाः । द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्ण॒: सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥
ádhā cin nú yád didhíṣāmahe vām abhí priyáṃ rékṇaḥ pátyamānāḥ | dadvā́m̐ vā́ yát púṣyati rékṇaḥ sámvāran nákir asya maghā́ni ||
And even when we would set our being towards you, seeking the dear riches and becoming their masters, the giver who increases the true treasure—none can obstruct his gifts of plenitude.
अध॑ । चि॒त् । नु । यत् । दधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः । द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊँ॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥अध । चित् । नु । यत् । दधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः । दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊँ इति । आरन् । नकिः । अस्य । मघानि ॥adha | cit | nu | yat | dadhiṣāmahe | vām | abhi | priyam | rekṇaḥ | patyamānāḥ | dadvān | vā | yat | puṣyati | rekṇaḥ | sam | oṃ iti | āran | nakiḥ | asya | maghāni