Sukta 10.132
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥
ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥
tā́ vāṃ mitrā́varuṇā dhāráyatkṣitī́ suṣumnéṣitatvatā́ yajāmasi | yuvóḥ krāṇā́ya sakhyáir abhí ṣyāma rákṣasaḥ ||
You two, Mitra and Varuṇa, who uphold the worlds, we worship by the impelling of your happy grace. By your friendship and your strengthening power may we prevail against the powers of distortion and darkness (rakṣas).
ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥ता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्क्षिती । सुसुम्ना । इषितत्वता । यजामसि । युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥tā | vām | mitrāvaruṇā | dhārayatkṣitī itidhārayat-kṣitī | su-sumnā | iṣitatvatā | yajāmasi | yuvoḥ | krāṇāya | sakhyaiḥ | abhi | syāma | rakṣasaḥ