Sukta 10.132
ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि । ईजानं देवावश्विनावभि सुम्नैरवर्धताम् ॥
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ । ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥
ījā́nam íd dyáur gūrtā́vasur ījā́naṃ bhū́mir abhí prá-bhūṣaṇi | ījā́naṃ devā́v aśvínāv abhí sumnáir avardhatām ||
He who is the true sacrificer—him Heaven, rich in well-ordered treasures, and Earth, in her forward adornment, increase. Him may the divine Ashvins too foster with their happy powers of aid.
ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ईजा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ । ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥ईजानम् । इत् । द्यौः । गूर्तवसुः । ईजानम् । भूमिः । अभि । प्रभूषणि । ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम् ॥ījānam | it | dyauḥ | gūrta-vasuḥ | ījānam | bhūmiḥ | abhi | pra-bhūṣaṇi | ījānam | devau | aśvinau | abhi | sumnaiḥ | avardhatām