Sukta 10.131
युवं सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥
yuváṃ surā́mam aśvinā námucāv āsuré sácā | vipipānā́ śúbhas patī́ índraṃ kármasv ā́vatam ||
You two, O Aśvins, drank deeply of the strong delight with Namuci in the Asuric field; you, lords of luminous beauty, upheld Indra in his works.
यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ । वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा । विपिपाना । शुभः । पती इति । इन्द्रम् । कर्मसु । आवतम् ॥yuvam | surāmam | aśvinā | namucau | āsure | sacā | vi-pipānā | śubhaḥ | patī iti | indram | karma-su | āvatam