Sukta 10.131
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः । यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्दं॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ॥
putrám iva pitarāv aśvinóbhéndrāvathuḥ kā́vyair daṃsanā́bhiḥ | yát surā́maṃ vyápibaḥ śácībhiḥ sárasvatī tvā maghavann abhiṣṇak ||
As two parents a son, the two Aśvins helped you, O Indra, with inspired skills and wondrous powers. When you drank out the strong delight by your mighty workings, Sarasvatī, O bounteous one, pressed you forward and made you victorious.
पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः । यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥पुत्रम्इव । पितरौ । अश्विना । उभा । इन्द्र । आवथुः । काव्यैः । दंसनाभिः । यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघवन् । अभिष्णक् ॥putram-iva | pitarau | aśvinā | ubhā | indra | āvathuḥ | kāvyaiḥ | daṃsanābhiḥ | yat | surāmam | vi | apibaḥ | śacībhiḥ | sarasvatī | tvā | magha-van | abhiṣṇak