Sukta 10.131
नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु । गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ । ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥
náhi sthū́ry ṛtuthā́ yātám asti nótá śrávo vivide saṃgaméṣu | gavyánta índraṃ sakhyā́ya víprā aśvāyánto vṛ́ṣaṇaṃ vājáyantaḥ ||
Not in a crude way is your coming according to the seasons; nor is your fame found merely in outer encounters. The inspired seek Indra for comradeship—seeking the rays of knowledge, seeking the steeds of energy, urging the Bull toward plenitude of force.
न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जऽय॑न्तः ॥नहि । स्थूरि । ऋतुथा । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्गमेषु । गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वयन्तः । वृषणम् । वाजयन्तः ॥nahi | sthūri | ṛtu-thā | yātam | asti | na | uta | śravaḥ | vivide | sam-gameṣu | gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vāja-yantaḥ