Sukta 10.131
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
kuvíd áṅga yáva-manto yávaṃ cid yáthā dā́nty anupūrváṃ víyūya | ihéhaiṣāṃ kṛṇuhi bhójanāni yé bárhiṣo námo-vṛktiṃ ná jagmúḥ ||
Perhaps indeed, O Indra, even those rich in grain are made to yield up their grain in due sequence. Here and here make for them their ‘foodings’—for those who have not reached the cutting of reverence upon the sacred grass.
कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ । इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥कुवित् । अङ्ग । यवमन्तः । यवम् । चित् । यथा । दान्ति । अनुपूर्वम् । वियूय । इहइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःवृक्तिम् । न । जग्मुः ॥kuvit | aṅga | yava-mantaḥ | yavam | cit | yathā | dānti | anu-pūrvam | vi-yūya | iha-iha | eṣām | kṛṇuhi | bhojanāni | ye | barhiṣaḥ | namaḥ-vṛktim | na | jagmuḥ