Sukta 10.130
चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥
चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥
cākḷpré téna ṛ́ṣayo manuṣyā́ yajñé jāté pítaro naḥ purāṇé | páśyan manyé mánasā cákṣasā tā́n yá imáṃ yajñám áyajanta pū́rve ||
By that ordering the human beings became seers; when the sacrifice was born, our ancient Fathers were already there. I behold them, I think, with the mind’s eye—those who in the beginning offered this very sacrifice.
चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे । पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥चाकॢप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे । पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥cākepre | tena | ṛṣayaḥ | manuṣyāḥ | yajñe | jāte | pitaraḥ | naḥ | purāṇe | paśyan | manye | manasā | cakṣasā | tān | ye | imam | yajñam | ayajanta | pūrve