Sukta 10.130
विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः । विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥
virā́ṇ mitrā́varuṇayor abhiśrī́r índrasya triṣṭúb iha bhāgó áhnaḥ | víśvān devā́ñ jagatyā́ víveśa téna cākḷpré ṛ́ṣayo manuṣyā́ḥ ||
The Virāj became the radiant plenitude of Mitra and Varuṇa; here the Triṣṭubh is Indra’s portion of the day. By the Jagatī all the gods entered into movement; by that shaping, the human seers were fashioned into their seeing.
वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥विराट् । मित्रावरुणयोः । अभिश्रीः । इन्द्रस्य । त्रिस्तुप् । इह । भागः । अह्नः । विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥virāṭ | mitrāvaruṇayoḥ | abhi-śrīḥ | indrasya | tri-stup | iha | bhāgaḥ | ahnaḥ | viśvān | devān | jagatī | ā | viveśa | tena | cākḷpre | ṛṣayaḥ | manuṣyāḥ