Sukta 10.130
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव । अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥
agnér gāyátry abhavat sayúgvoṣṇíhayā savitā sáṃ babhūva | anuṣṭúbhā sóma uktháir máhasvān bṛ́haspáter bṛhatī́ vā́cam āvat ||
From Agni arose the Gāyatrī—yoked to its right force; with the Uṣṇih Savitṛ came into full conjunction. With the Anuṣṭubh, Soma grows mighty by the hymns of affirmation; and from Bṛhaspati the Bṛhatī upheld the vast Word within us.
अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥अग्नेः । गायत्री । अभवत् । सयुग्वा । उष्णिहया । सविता । सम् । बभूव । अनुस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥agneḥ | gāyatrī | abhavat | sa-yugvā | uṣṇihayā | savitā | sam | babhūva | anu-stubhā | somaḥ | ukthaiḥ | mahasvān | bṛhaspateḥ | bṛhatī | vācam | āvat