Sukta 10.129
को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥
kó addhā́ veda ká ihá prá vocat kúta ā́jātā kúta iyáṃ vísṛṣṭiḥ | arvā́g devā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ||
Who truly knows, and who here can declare—from where it was born, from where this outpouring came? The gods themselves are later than this creation; so who knows from where it first arose?
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः । अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आजाता । कुतः । इयम् । विसृष्टिः । अर्वाक् । देवाः । अस्य । विसर्जनेन । अथ । कः । वेद । यतः । आबभूव ॥kaḥ | addhā | veda | kaḥ | iha | pra | vocat | kutaḥ | ājātā | kutaḥ | iyam | vi-sṛṣṭiḥ | arvāk | devāḥ | asya | vi-sarjanena | atha | kaḥ | veda | yataḥ | ābabhūva