Sukta 10.129
तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥
tiraścī́no vítato raśmír eṣām adháḥ svíd āsī́d úpari svid āsī́t | retodhā́ āsan mahimā́na āsan svadhā́ avastā́t práyatiḥ parástāt ||
Their ray was stretched crosswise—was there below, or was there above? There were seed-bearers, there were mighty powers: self-law beneath, and the forward-impulse beyond.
ति॒र॒श्चीनः॑ । विऽत॑तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि॑त् । आ॒सी॒३त् । उ॒परि॑ । स्वित् । आ॒सी॒३त् । रे॒तः॒ऽधाः । आ॒स॒न् । म॒हि॒मानः॑ । आ॒स॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । प॒रस्ता॑त् ॥तिरश्चीनः । विततः । रश्मिः । एषाम् । अधः । स्वित् । आसी3त् । उपरि । स्वित् । आसी3त् । रेतःधाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्रयतिः । परस्तात् ॥tiraścīnaḥ | vi-tataḥ | raśmiḥ | eṣām | adhaḥ | svit | āsī3t | upari | svit | āsī3t | retaḥ-dhāḥ | āsan | mahimānaḥ | āsan | svadhā | avastāt | pra-yatiḥ | parastāt