Sukta 10.129
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥
iyáṃ vísṛṣṭir yáta ābabhū́va yádi vā dadhé yádi vā ná | yó asyā́dhyakṣaḥ paramé vyòman t só aṅgá veda yádi vā ná veda ||
This creation—from where it arose—whether it was upheld, or whether it was not: the overseer of it in the highest heaven, he surely knows… or perhaps even he does not know.
इ॒यम् । विऽसृ॑ष्टिः । यतः॑ । आ॒ऽब॒भूव॑ । यदि॑ । वा॒ । द॒धे । यदि॑ । वा॒ । न । यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽओ॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥इयम् । विसृष्टिः । यतः । आबभूव । यदि । वा । दधे । यदि । वा । न । यः । अस्य । अधिअक्षः । परमे । विओमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद ॥iyam | vi-sṛṣṭiḥ | yataḥ | ābabhūva | yadi | vā | dadhe | yadi | vā | na | yaḥ | asya | adhi-akṣaḥ | parame | vi-oman | saḥ | aṅga | veda | yadi | vā | na | veda