Sukta 10.129
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेत॑: प्रथ॒मं यदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥
kā́mas tád ágre sám avartatā́dhi mánaso rétaḥ prathamáṃ yád āsīt | sató bándhum ásati nír avindan hṛdí pratī́ṣyā kaváyo manīṣā́ ||
Desire arose in the beginning upon That—desire, the first seed of mind. The seers, searching in the heart with insight, discovered the bond of the formed within the unformed.
कामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् । स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒तीष्या॑ । क॒वयः॑ । म॒नी॒षा ॥कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् । सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतीष्या । कवयः । मनीषा ॥kāmaḥ | tat | agre | sam | avartata | adhi | manasaḥ | retaḥ | prathamam | yat | āsīt | sataḥ | bandhum | asati | niḥ | avindan | hṛdi | pratīṣyā | kavayaḥ | manīṣā