Sukta 10.129
तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥
táma āsīt támasā gūḷhám ágre ’praketáṃ saliláṃ sárvam ā́ idám | túcchyena ā́bhu ápihitaṃ yád āsīt tápasas tán mahínā́jāyataíkam ||
In the beginning darkness was hidden by darkness; all this was a formless ocean without distinguishing sign. What lay covered by the void and the ungraspable—by the greatness of inner heat (tapas) That One was born.
तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् । तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रकेतम् । सलिलम् । सर्वम् । आः । इदम् । तुच्छ्येन । आभु । अपिहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥tamaḥ | āsīt | tamasā | gūḷham | agre | apra-ketam | salilam | sarvam | āḥ | idam | tucchyena | ābhu | api-hitam | yat | āsīt | tapasaḥ | tat | mahinā | ajāyata | ekam