Sukta 10.128
उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः । स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः । स न॑: प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
uru-vyácā no mahíṣaḥ śárma yaṁsad asmín háve puruhūtáḥ purukṣúḥ | sá naḥ prajā́yai hary-aśva mṛḷayéndra mā́ no rīriṣo mā́ párā dāḥ ||
May the wide-pervading Mighty One grant us shelter in this call—Indra, invoked by many, increasing many. For our progeny and our becoming, O bright-steeded Indra, be gracious; do not harm us, do not cast us away.
उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः । सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥उरुव्यचाः । नः । महिषः । शर्म । यंसत् । अस्मिन् । हवे । पुरुहूतः । पुरुक्षुः । सः । नः । प्रजायै । हरिअश्व । मृळय । इन्द्र । मा । नः । रिरिषः । मा । परा । दाः ॥uru-vyacāḥ | naḥ | mahiṣaḥ | śarma | yaṃsat | asmin | have | puru-hūtaḥ | puru-kṣuḥ | saḥ | naḥ | pra-jāyai | hari-aśva | mṛḷaya | indra | mā | naḥ | ririṣaḥ | mā | parā | dāḥ