Sukta 10.128
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥
ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥
yé naḥ sapátnā apa té bhavantu indrāgníbhyām áva bādhāmahe tā́n | vásavo rudrā́ ādityā́ uparispṛ́śaṁ mā́ ugráṁ céttāram adhirājám akran ||
May those who are our rivals fall away; with Indra and Agni we thrust them down. The Vasus, Rudras, and Ādityas have made the fierce Over-king, the watcher who reaches above (all), for our guarding.
ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥ये । नः । सपत्नाः । अप । ते । भवन्तु । इन्द्राग्निभ्याम् । अव । बाधामहे । तान् । वसवः । रुद्राः । आदित्याः । उपरिस्पृशम् । मा । उग्रम् । चेत्तारम् । अधिराजम् । अक्रन् ॥ye | naḥ | sa-patnāḥ | apa | te | bhavantu | indrāgni-bhyām | ava | bādhāmahe | tān | vasavaḥ | rudrāḥ | ādityāḥ | upari-spṛśam | mā | ugram | cettāram | adhi-rājam | akran