Sukta 10.128
धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥
धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥
dhā́tā dhātṝṇā́ṁ bhúvanasya yás pátiḥ deváṁ trā́tāram abhimāti-sāhám | imáṁ yajñám aśvínobhā́ bṛ́haspátir devā́ḥ pāntu yájamānaṁ nyàrthāt ||
May Dhātā, lord of the foundations of the world, the divine protector who overcomes hostile assaults; may both Ashvins, and Brihaspati, and the gods guard this sacrifice and the sacrificer from harm and mis-aim.
धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् । इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥धाता । धातॄणाम् । भुवनस्य । यः । पतिः । देवम् । त्रातारम् । अभिमातिसहम् । इमम् । यज्ञम् । अश्विना । उभा । बृहस्पतिः । देवाः । पान्तु । यजमानम् । निअर्थात् ॥dhātā | dhātṝṇām | bhuvanasya | yaḥ | patiḥ | devam | trātāram | abhimāti-saham | imam | yajñam | aśvinā | ubhā | bṛhaspatiḥ | devāḥ | pāntu | yajamānam | ni-arthāt