Sukta 10.128
अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒: पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
ágnē manyúṁ pratinudán paréṣām ádabdho gopā́ḥ pári pāhi nas tvám | prátyañco yantu nigutáḥ púnas te 'mā́ eṣā́ṁ cíttaṁ prabúdhāṁ ví neśat ||
O Agni, thrust back the wrath of the others; unfailing guardian, protect us all around. Let the hidden hostile ones turn back; and near thee may their mind be driven apart, their awakenings scattered.
अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् । प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते॒ । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । ने॒श॒त् ॥अग्ने । मन्युम् । प्रतिनुदन् । परेषाम् । अदब्धः । गोपाः । परि । पाहि । नः । त्वम् । प्रत्यञ्चः । यन्तु । निगुतः । पुनरिति । ते । अमा । एषाम् । चित्तम् । प्रबुधाम् । नेशत् ॥agne | manyum | prati-nudan | pareṣām | adabdhaḥ | gopāḥ | pari | pāhi | naḥ | tvam | pratyañcaḥ | yantu | ni-gutaḥ | punariti | te | amā | eṣām | cittam | pra-budhām | neśat