Sukta 10.128
मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीरा॑: ॥
máyi devā́ dráviṇam ā́ yajantāṁ máyy āśī́r astu máyi deváhūtiḥ | daivyā́ hótāro vanuṣanta pū́rve 'ríṣṭāḥ syāma tanvā̀ suvírāḥ ||
In me may the gods set their plenitude; in me be the benediction, in me the divine calling. May the ancient divine Hotars work for us; may we be unharmed in our embodied being, rich in heroic energies.
मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः । दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म । त॒न्वा॑ । सु॒ऽवीराः॑ ॥मयि । देवाः । द्रविणम् । आ । यजन्ताम् । मयि । आशीः । अस्तु । मयि । देवहूतिः । दैव्याः । होतारः । वनुषन्त । पूर्वे । अरिष्टाः । स्याम । तन्वा । सुवीराः ॥mayi | devāḥ | draviṇam | ā | yajantām | mayi | āśīḥ | astu | mayi | deva-hūtiḥ | daivyāḥ | hotāraḥ | vanuṣanta | pūrve | ariṣṭāḥ | syāma | tanvā | su-vīrāḥ