Sukta 10.128
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥
máhyaṁ yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu | éno mā́ ní gāṁ katámac canā́haṁ víśve devāso ádhi vocatā naḥ ||
Let the offerings that are mine be offered for me; let the intention of my mind be true. Let no guilt come upon me, not in any way; O all you gods, speak on our behalf and over us (for our right).
मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ । एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥मह्यम् । यजन्तु । मम । यानि । हव्या । आकूतिः । सत्या । मनसः । मे । अस्तु । एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥mahyam | yajantu | mama | yāni | havyā | ākūtiḥ | satyā | manasaḥ | me | astu | enaḥ | mā | ni | gām | katamat | cana | aham | viśve | devāsaḥ | adhi | vocata | naḥ