Sukta 10.128
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वात॑: पवतां॒ कामे॑ अ॒स्मिन् ॥
mámā devā́ viha vé santu sárva índrāvanto marúto víṣṇur agníḥ | mámāntárikṣam urúlokam astu máhyaṁ vā́taḥ pavatāṁ kā́me asmín ||
May all the gods be with me in the clash of calls—Maruts with Indra, Vishnu, and Agni. May my mid-world become a wide realm; for me may Vāta blow in this desire (that seeks fulfilment).
मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः । मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥मम । देवाः । विहवे । सन्तु । सर्वे । इन्द्रवन्तः । मरुतः । विष्णुः । अग्निः । मम । अन्तरिक्षम् । उरुलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥mama | devāḥ | vi-have | santu | sarve | indra-vantaḥ | marutaḥ | viṣṇuḥ | agniḥ | mama | antarikṣam | uru-lokam | astu | mahyam | vātaḥ | pavatām | kāme | asmin