Sukta 10.128
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
mámāgne várcō viha véṣv astu vayáṁ tvéndhānās tanvàṁ puṣema | máhyaṁ namantāṁ pradiśáś cátasras tváyādhyákṣeṇa pṛ́tanā jayema ||
O Agni, may my luminous force be victorious in the calls of conflict; kindling thee within, may we increase our embodied being. May the four directions bow to me; under thy over-lordship may we win the battles.
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥मम । अग्ने । वर्चः । विहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम । मह्यम् । नमन्ताम् । प्रदिशः । चतस्रः । त्वया । अधिअक्षेण । पृतनाः । जयेम ॥mama | agne | varcaḥ | vi-haveṣu | astu | vayam | tvā | indhānāḥ | tanvam | puṣema | mahyam | namantām | pra-diśaḥ | catasraḥ | tvayā | adhi-akṣeṇa | pṛtanāḥ | jayema