Sukta 10.125
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
aháṃ suv e pitáram asya mū́rdhan máma yóniḥ apsv àntáḥ samudré | tató ví tiṣṭhe bhúvanānu víśvotā́mūṃ dyā́ṃ várṣmaṇópa spṛśāmi ||
I bring forth the Father upon the summit of this existence; my womb is in the waters, within the ocean-depth. From there I stand out and move through all the worlds; and with my body of vastness I touch that yonder heaven.
अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे । ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्सु । अन्तरिति । समुद्रे । ततः । वि । तिष्ठे । भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥aham | suve | pitaram | asya | mūrdhan | mama | yoniḥ | ap-su | antariti | samudre | tataḥ | vi | tiṣṭhe | bhuvanā | anu | viśvā | uta | amūm | dyām | varṣmaṇā | upa | spṛśāmi