Sukta 10.125
अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥
ahám eva vā́ta iva prá vām yārabhamāṇā́ bhúvanāni víśvā | paró divā́ pará enā́ pṛthivyā́ etā́vatī mahinā́ sáṃ babhūva ||
I move forth like the Wind, taking hold of all the worlds. Beyond heaven, beyond this earth—so vast I become by my greatness.
अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ । प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥अहम् । एव । वातःइव । प्र । वामि । आरभमाणा । भुवनानि । विश्वा । परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥aham | eva | vātaḥ-iva | pra | vāmi | ārabhamāṇā | bhuvanāni | viśvā | paraḥ | divā | paraḥ | enā | pṛthivyā | etāvatī | mahinā | sam | babhūva