Sukta 10.125
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥
aháṃ sómam āhanásaṃ bibharmy aháṃ tváṣṭāram utá pūṣáṇaṃ bhágam | aháṃ dadhāmi dráviṇaṃ havíṣmate suprāvyè yajámānāya sunváte ||
I bear Soma the smiter (of obstacles); I bear Tvaṣṭṛ, and also Pūṣan and Bhaga. I place the treasure for the offerer—richly protective—for the sacrificer who presses Soma.
अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रअव्ये । यजमानाय । सुन्वते ॥aham | somam | āhanasam | bibharmi | aham | tvaṣṭāram | uta | pūṣaṇam | bhagam | aham | dadhāmi | draviṇam | haviṣmate | supra-avye | yajamānāya | sunvate