Sukta 10.125
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
aháṃ rudrébhir vásubhiś carāmy ahám ādityáir utá víśvadevaiḥ | aháṃ mitrā́varuṇobhā́ bibharmy ahám indrāgnī́ ahám aśvinóbhā ||
I move with the Rudras and the Vasus; I move with the Ādityas and with all the gods. I uphold both Mitra and Varuṇa; I uphold Indra and Agni; I uphold both the Aśvins.
अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥अहम् । रुद्रेभिः । वसुभिः । चरामि । अहम् । आदित्यैः । उत । विश्वदेवैः । अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥aham | rudrebhiḥ | vasu-bhiḥ | carāmi | aham | ādityaiḥ | uta | viśva-devaiḥ | aham | mitrāvaruṇā | ubhā | bibharmi | aham | indrāgnī iti | aham | aśvinā | ubhā