Sukta 10.125
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥
aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ cikituṣī́ prathamā́ yajñíyānām | tā́ṃ mā devā́ vyàdadhuḥ purutrā́ bhū́risthātrāṃ bhū́ry āveśáyantīm ||
I am the Sovereign Queen, the gatherer of treasures; I am the conscious-knower, first among those who are fit for the sacrifice. The gods have set me in many places—making me widely established, making me enter into many forms and beings.
अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥अहम् । राष्ट्री । सम्गमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् । ताम् । मा । देवाः । वि । अदधुः । पुरुत्रा । भूरिस्थात्राम् । भूरि । आवेशयन्तीम् ॥aham | rāṣṭrī | sam-gamanī | vasūnām | cikituṣī | prathamā | yajñiyānām | tām | mā | devāḥ | vi | adadhuḥ | puru-trā | bhūri-sthātrām | bhūri | āveśayantīm