Sukta 10.124
ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः । ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥
ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः । ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥
tā́ asya jyéṣṭham indriyáṃ sacante tā́ īmā́ kṣéti svadháyā mádantīḥ | tā́ īṃ víśo ná rājānaṃ vṛṇānā́ bībhatsúvo ápa vṛtrā́d atiṣṭhan ||
They cleave to his highest might, his Indra-force; they dwell here, rejoicing by their own inner law. Like peoples choosing a king, they choose him; turning away from the Vṛtra-cover, they took their stand apart from it.
ताः । अ॒स्य॒ । ज्येष्ठ॑म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया॑ । मद॑न्तीः । ताः । ई॒म् । विशः॑ । न । राजा॑नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः॑ । अप॑ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥ताः । अस्य । ज्येष्ठम् । इन्द्रियम् । सचन्ते । ताः । ईम् । आ । क्षेति । स्वधया । मदन्तीः । ताः । ईम् । विशः । न । राजानम् । वृणानाः । बीभत्सुवः । अप । वृत्रात् । अतिष्ठन् ॥tāḥ | asya | jyeṣṭham | indriyam | sacante | tāḥ | īm | ā | kṣeti | svadhayā | madantīḥ | tāḥ | īm | viśaḥ | na | rājānam | vṛṇānāḥ | bībhatsuvaḥ | apa | vṛtrāt | atiṣṭhan