Sukta 10.124
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् । क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥
kavíḥ kavitvā́ diví rūpám āsajad áprabhūtī váruṇo nír apáḥ sṛjat | kṣémaṃ kṛṇvānā́ janáyo ná síndhavas tā́ asya várṇaṃ śúcayo bharibhrati ||
The Seer, by seerhood, set his form in heaven; Varuṇa, of unobstructed power, released the waters. Making peace and safe wideness, like mothers, like rivers, the pure ones bear and carry his radiant hue.
क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् । क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥कविः । कवित्वा । दिवि । रूपम् । आ । असजत् । अप्रभूती । वरुणः । निः । अपः । सृजत् । क्षेमम् । कृण्वानाः । जनयः । न । सिन्धवः । ताः । अस्य । वर्णम् । शुचयः । भरिभ्रति ॥kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat | kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | śucayaḥ | bharibhrati